पूर्वम्: ७।४।६३
अनन्तरम्: ७।४।६५
सूत्रम्
कृषेश्छन्दसि॥
७।४।६४
काशिका-वृत्तिः
कृषेश्छन्दसि
७।४।६४
कृषेः छन्दसि विषये यङि परतः अभ्यासस्य चुः न भवति। करिकृष्यते यज्ञकुणपः।
छन्दसि इति किम्?
चरीकृष्यते कृषीवलः।
न्यासः
कृषेश्छन्दसि।
, ७।४।६४
"करीकृष्यते" इति। "कृष विलेखने" (धा।पा।९९०) "रीगृहुपधस्य"
७।४।९०
इति रीगागमः॥